|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.66. अध्यायः 066
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन धृतराष्ट्रवत्तनानभिनन्दने राज्ञां निर्गमनम् ॥ 1 ॥ धृतराष्ट्रेण स्वपरसेनयोः सारासारकथनचोदितेन सञ्जयेन व्यासगान्धारीसन्निधौ कथनकथनम् ॥ 2 । श्रीव्यासेन सञ्जयंप्रति धृतराष्ट्रप्रश्नस्योत्तरदानाभ्यनुज्ञानम् ॥ 3 ।
Mahabharata - Udyoga Parva - Chapter Text
वैशंपायान उवाच। 5-66-0x(3593)(34250)
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥ 5-66-1(34251)
उत्थितेषु महाराज पृथिव्यां सर्वराजसु।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥ 5-66-2(34252)
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥ 5-66-3(34253)
धृतराष्ट्र उवाच। 5-66-4x(3594)
गावल्गणे ब्रूहि नः सारफल्गु
स्वेसनायं यावदिहास्ति किंचित्।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं
किमेषां ज्यायः किमु तेषां कनीयः ॥ 5-66-4(34254)
त्वमेतयोः सारवित्सर्वदर्शी
धर्मार्थयोर्निपुणो निश्चयज्ञः।
स मे पृष्टः सञ्जय ब्रूहि सर्वं
युध्यमानाः कतरेऽस्मिन्न सन्ति ॥ 5-66-5(34255)
सञ्जय उवाच। 5-66-6x(3595)
न त्वां ब्रूयां रहिते जातु किंचि-
दसूया हि त्वां प्रविशेत राजन्।
आनयस्व पितरं महाव्रतं
गान्धारीं च महिषीमाजमीढ ॥ 5-66-6(34256)
तो तेऽसूयां विनयेतां नरेन्द्र
धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं
कृत्स्नं मतं केशवपार्थयोर्यत् ॥ 5-66-7(34257)
वैशम्पायन उवाच। 5-66-8x(3596)
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥ 5-66-8(34258)
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ 5-66-9(34259)
व्यास उवाच। 5-66-10x(3597)
संपृच्छते धृतराष्ट्रय सञ्जय
आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते।
सर्वं यावद्वेत्थ तस्मिन्यथाव-
द्याथातथ्यं वासुदेवेऽर्जुने च ॥ ॥ 5-66-10(34260)
इति श्रीमन्महाभारतो उद्योगपर्वणि यानसन्धिपर्वणि षट्षष्टितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-66-3 परेषां तटस्थानाम् ॥ 5-66-5 युध्यमाना न सन्ति उदासीना इत्यर्थः ॥ 5-66-6 पितरं व्यासम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|